Astro Consultation

Library

Shiv Raksha Kavach

Buy listening to this kavach , shiv protects  and acts as a armour to your physical , mental and Causal body

अपारं परमोदारं चतुर्वर्गस्यसाधनम् ॥ १ ॥

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।

शिवं ध्यात्वा दशभुजं शिवरक्षांपठेन्नरः ॥ २ ॥

 

गंगाधरः शिरः पातु फालमर्धेन्दुशेखरः ।

नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३ ॥

घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।

जिह्वां वागीश्वरः पातु कन्धरं शितिकन्धरः ॥ ४ ॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।

भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५ ॥

हृदयं शंकरः पातु जठरं गिरिजापतिः ।

नाभिं मृत्युंजयः पातु कटिं व्याघ्राजिनाम्बरः ॥ ६ ॥

सक्थिनी पातु दीनार्तशरणागतवत्सलः ।

ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७ ॥

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।

चरणौ करुणासिन्धुः सर्वांगानि सदाशिवः ॥ ८ ॥

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।

स भुक्त्वा सकलान् कामान् शिवसायूज्यमाप्नुयात् ॥ ९ ॥

 

ग्रहभूतपिशाचाद्याः त्रैलोक्ये विचरन्ति ये ।

दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १० ॥

अभयङ्करनामेदं कवचं पार्वतीपतेः ।

भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११ ॥

speak to our expert !

Speak to our Experts and get instant assistance regarding any query you may have.