Astro Consultation

Library

Laxmi Kavach

This kavacham is given to Indra by God Hari. The devotee who wears this kavacham around his neck or on right hand becomes a wealthy person, victorious in all his endeavours or wars against enemies.

नारद उवाच

आविर्भूय हरिस्तस्मै किं स्तोत्रं कवचं ददौ ।

महालक्ष्म्याश्र्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन ॥ १ ॥

नारायण उवाच 

पुष्करे च तपस्तप्त्वा विरराम सुरेश्र्वरः ।

आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम् ॥ २ ॥

तमुवाच हृषीकेशो वरं वृणु यथेप्सितम् ।

स च वव्रे वरं लक्ष्मीमीशस्तस्मै ददौ मुदा ॥ ३ ॥

वरं दत्वा हृषीकेशः प्रवक्तुमुपचक्रमे । 

हितं सत्यं च सारं च परिणामसुखावहम् ॥ ४ ॥

श्रीमधुसुदन उवाच 

गृहाण कवचं शक्र सर्वदुःखविनाशनम् ।

परमैश्वर्यजनकं सर्वशत्रुविमर्दनम् ॥ ५ ॥

ब्रह्मणे च पुरा दत्तं संसारे च जलप्लुते ।

यद् धृत्वा जगतां श्रेष्ठः सर्वैश्र्वर्ययुतो विधिः ॥ ६ ॥

बभूवुर्मनवः सर्वे सर्वैश्र्वर्ययुता यतः ।

सर्वैश्र्वर्यप्रदस्यास्य कवचस्य ऋषिर्विधिः ॥ ७ ॥

पङ्क्तिश्छश्र्च सा देवी स्वयं पद्मालया सुर ।

सिद्धैश्र्वर्यजपेष्वेव विनियोगः प्रकीर्तितः ॥ ८ ॥

यद् धृत्वा कवचं लोकः सर्वत्र विजयी भवेत् ।

मस्तकं पातु मे पद्मा कण्ठं पातु हरिप्रिया ॥ ९ ॥     

नासिकां पातु मे लक्ष्मीः कमला पातु लोचनम् । 

केशान् केशवकान्ता च कपालं कमलालया ॥ १० ॥

जगत्प्रसूर्गण्डयुग्मं स्कन्धं सम्पत्प्रदा सदा ।

ॐ श्रीं कमलवासिन्यै स्वाहा पृष्ठं सदावतु ॥ ११ ॥

ॐ श्रीं पद्मालयायै स्वाहा वक्षः सदावतु ।

पातु श्रीर्मम कङ्कालं बाहुयुग्मं च ते नमः ॥ १२ ॥

ॐ हृीं श्रीं लक्ष्म्यै नमः पादौ पातु मे संततं चिरम् ।

ॐ हृीं श्रीं नमः पद्मायै स्वाहा पातु नितम्बकम् ॥ १३ ॥

ॐ श्रीं महालक्ष्म्यै स्वाहा सर्वाङ्गं पातु मे सदा ।

ॐ हृीं श्रीं क्लीं महालक्ष्म्यै स्वाहा मां पातु सर्वतः ॥ १४ ॥

इति ते कथितं वत्स सर्वसम्पत्करं परम् ।

सर्वैश्र्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ १५ ॥

गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु यः ।

कण्ठे वा दक्षिणे बाहौ स सर्वविजयी भवेत् ॥ १६ ॥    

महालक्ष्मीर्गृहं तस्य न जहाति कदाचन ।

तस्य छायेव सततं सा च जन्मनि जन्मनि ॥ १७ ॥

इदं कवचमज्ञात्वा भजेल्लक्ष्मीं सुमन्दधीः ।

शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ १८ ॥

॥ इति श्रीब्रह्मवैवर्ते इन्द्रं प्रति हरिणोपदिष्टं लक्ष्मीकवचं सम्पूर्णम् ॥

.

speak to our expert !

Speak to our Experts and get instant assistance regarding any query you may have.